Sukta 8.68
तं त्वा यज्ञेभिरीमहे तं गीर्भिर्गिर्वणस्तम । इन्द्र यथा चिदाविथ वाजेषु पुरुमाय्यम् ॥
तं त्वा॑ य॒ज्ञेभि॑रीमहे॒ तं गी॒र्भिर्गि॑र्वणस्तम । इन्द्र॒ यथा॑ चि॒दावि॑थ॒ वाजे॑षु पुरु॒माय्य॑म् ॥
táṃ tvā yájñebhir īmahe táṃ gīrbhír girvaṇastama | índra yáthā cid ā́vitha vā́jeṣu puru-mā́yyam ||
You we seek by our sacrifices, you by our inspired words, O Indra most responsive to the chant; as you have helped before, help now in the plenitudes of force—O you of manifold effective powers.
तम् । त्वा॒ । य॒ज्ञेभिः॑ । ई॒म॒हे॒ । तम् । गीः॒ऽभिः । गि॒र्व॒णः॒ऽत॒म॒ । इन्द्र॑ । यथा॑ । चि॒त् । आवि॑थ । वाजे॑षु । पु॒रु॒ऽमाय्य॑म् ॥तम् । त्वा । यज्ञेभिः । ईमहे । तम् । गीःभिः । गिर्वणःतम । इन्द्र । यथा । चित् । आविथ । वाजेषु । पुरुमाय्यम् ॥tam | tvā | yajñebhiḥ | īmahe | tam | gīḥ-bhiḥ | girvaṇaḥ-tama | indra | yathā | cit | āvitha | vājeṣu | puru-māyyam