Sukta 8.67
मा नो मृचा रिपूणां वृजिनानामविष्यवः । देवा अभि प्र मृक्षत ॥
मा नो॑ मृ॒चा रि॑पू॒णां वृ॑जि॒नाना॑मविष्यवः । देवा॑ अ॒भि प्र मृ॑क्षत ॥
mā no mṛcā ripūṇāṃ vṛjinānām aviṣyavaḥ | devā abhi pra mṛkṣata ||
Let not the harm of the hostile, the crooked-doers, reach us; O gods, sweep them away from around us and drive them off.
मा । नः॒ । मृ॒चा । रि॒पू॒णाम् । वृ॒जि॒नाना॑म् । अ॒वि॒ष्य॒वः॒ । देवाः॑ । अ॒भि । प्र । मृ॒क्ष॒त॒ ॥मा । नः । मृचा । रिपूणाम् । वृजिनानाम् । अविष्यवः । देवाः । अभि । प्र । मृक्षत ॥mā | naḥ | mṛcā | ripūṇām | vṛjinānām | aviṣyavaḥ | devāḥ | abhi | pra | mṛkṣata