Sukta 8.67
तेषां हि चित्रमुक्थ्यं वरूथमस्ति दाशुषे । आदित्यानामरंकृते ॥
तेषां॒ हि चि॒त्रमु॒क्थ्यं१॒॑ वरू॑थ॒मस्ति॑ दा॒शुषे॑ । आ॒दि॒त्याना॑मरं॒कृते॑ ॥
teṣā́ṃ hí citrám ukthyàṃ varū́tham ásti dāśúṣe | ādityā́nām araṃ-kṛ́te ||
For theirs is a bright and speakable protection, a shelter that answers the hymn, for the giver who offers rightly—of the Ādityas who are ready to act and sufficient in their ordering power.
तेषा॑म् । हि । चि॒त्रम् । उ॒क्थ्य॑म् । वरू॑थम् । अस्ति॑ । दा॒शुषे॑ । आ॒दि॒त्याना॑म् । अ॒र॒म्ऽकृते॑ ॥तेषाम् । हि । चित्रम् । उक्थ्यम् । वरूथम् । अस्ति । दाशुषे । आदित्यानाम् । अरम्कृते ॥teṣām | hi | citram | ukthyam | varūtham | asti | dāśuṣe | ādityānām | aram-kṛte