Sukta 8.67
मित्रो नो अत्यंहतिं वरुणः पर्षदर्यमा । आदित्यासो यथा विदुः ॥
मि॒त्रो नो॒ अत्यं॑ह॒तिं वरु॑णः पर्षदर्य॒मा । आ॒दि॒त्यासो॒ यथा॑ वि॒दुः ॥
mitró no áty aṃ́hatim váruṇaḥ parṣad aryamā́ | ādityā́so yáthā vidúḥ ||
May Mitra carry us beyond the narrowness and distress; may Varuṇa and Aryaman lead us across—so that the Ādityas, as they know the law, establish for us the safe passage into wideness.
मि॒त्रः । नः॒ । अति॑ । अं॒ह॒तिम् । वरु॑णः । प॒र्ष॒त् । अ॒र्य॒मा । आ॒दि॒त्यासः॑ । यथा॑ । वि॒दुः ॥मित्रः । नः । अति । अंहतिम् । वरुणः । पर्षत् । अर्यमा । आदित्यासः । यथा । विदुः ॥mitraḥ | naḥ | ati | aṃhatim | varuṇaḥ | parṣat | aryamā | ādityāsaḥ | yathā | viduḥ