Sukta 8.67
शश्वद्धि वः सुदानव आदित्या ऊतिभिर्वयम् । पुरा नूनं बुभुज्महे ॥
शश्व॒द्धि व॑: सुदानव॒ आदि॑त्या ऊ॒तिभि॑र्व॒यम् । पु॒रा नू॒नं बु॑भु॒ज्महे॑ ॥
śaśvádd hí vaḥ sudā́nava ādityā ūtíbhir vayám | purā nūnáṁ bubhujmáhe ||
For ever, O well-giving Ādityas, we have enjoyed your help—both in the ancient past and even now; your guardianship is continuous in our growth.
शश्व॑त् । हि । वः॒ । सु॒ऽदा॒न॒वः॒ । आदि॑त्याः । ऊ॒तिऽभिः॑ । व॒यम् । पु॒रा । नू॒नम् । बु॒भु॒ज्महे॑ ॥शश्वत् । हि । वः । सुदानवः । आदित्याः । ऊतिभिः । वयम् । पुरा । नूनम् । बुभुज्महे ॥śaśvat | hi | vaḥ | su-dānavaḥ | ādityāḥ | ūti-bhiḥ | vayam | purā | nūnam | bubhujmahe