Sukta 8.67
ते न आस्नो वृकाणामादित्यासो मुमोचत । स्तेनं बद्धमिवादिते ॥
ते न॑ आ॒स्नो वृका॑णा॒मादि॑त्यासो मु॒मोच॑त । स्ते॒नं ब॒द्धमि॑वादिते ॥
te na āsno vṛkāṇām ādityāso mumocata | stenaṃ baddham ivādite ||
May those Ādityas release us from the jaws of the wolves, as one frees a bound thief—O Aditi—so may they loosen the bonds that seize the soul.
ते । नः॒ । आ॒स्नः । वृका॑णाम् । आदि॑त्यासः । मु॒मोच॑त । स्ते॒नम् । ब॒द्धम्ऽइ॑व । अ॒दि॒ते॒ ॥ते । नः । आस्नः । वृकाणाम् । आदित्यासः । मुमोचत । स्तेनम् । बद्धम्इव । अदिते ॥te | naḥ | āsnaḥ | vṛkāṇām | ādityāsaḥ | mumocata | stenam | baddham-iva | adite