Sukta 8.67
ये मूर्धानः क्षितीनामदब्धासः स्वयशसः । व्रता रक्षन्ते अद्रुहः ॥
ये मू॒र्धान॑: क्षिती॒नामद॑ब्धास॒: स्वय॑शसः । व्र॒ता रक्ष॑न्ते अ॒द्रुह॑: ॥
ye mūrdhānaḥ kṣitīnām adabdhāsaḥ svayaśasaḥ | vratā rakṣante adruhaḥ ||
They who are the head-tops of the worlds, unbetrayable, self-glorious—who guard the laws (vrata) without treachery.
ये । मू॒र्धानः॑ । क्षि॒ती॒नाम् । अद॑ब्धासः । स्वऽय॑शसः । व्र॒ता । रक्ष॑न्ते । अ॒द्रुहः॑ ॥ये । मूर्धानः । क्षितीनाम् । अदब्धासः । स्वयशसः । व्रता । रक्षन्ते । अद्रुहः ॥ye | mūrdhānaḥ | kṣitīnām | adabdhāsaḥ | sva-yaśasaḥ | vratā | rakṣante | adruhaḥ