Sukta 8.65
यच्चिद्धि शश्वतामसीन्द्र साधारणस्त्वम् । तं त्वा वयं हवामहे ॥
यच्चि॒द्धि शश्व॑ता॒मसीन्द्र॒ साधा॑रण॒स्त्वम् । तं त्वा॑ व॒यं ह॑वामहे ॥
yác cíd dhí śáśvatām ásīndra sā́dhāraṇas tvám | táṃ tvā vayáṃ havāmahe ||
For even among the everlasting powers you are the common and accessible one, O Indra; therefore we call you—come as the shared strength that supports all and awakens the light in us.
यत् । चि॒त् । हि । शश्व॑ताम् । असि॑ । इन्द्र॑ । साधा॑रणः । त्वम् । तम् । त्वा॒ । व॒यम् । ह॒वा॒म॒हे॒ ॥यत् । चित् । हि । शश्वताम् । असि । इन्द्र । साधारणः । त्वम् । तम् । त्वा । वयम् । हवामहे ॥yat | cit | hi | śaśvatām | asi | indra | sādhāraṇaḥ | tvam | tam | tvā | vayam | havāmahe