Sukta 8.65
सुतावन्तस्त्वा वयं प्रयस्वन्तो हवामहे । इदं नो बर्हिरासदे ॥
सु॒ताव॑न्तस्त्वा व॒यं प्रय॑स्वन्तो हवामहे । इ॒दं नो॑ ब॒र्हिरा॒सदे॑ ॥
sutā́vantastvā vayáṃ práyasvanto havāmahe | idáṃ no bárhir āsáde ||
We, who have the Soma pressed and the offering-force prepared, call you: come and sit upon this our sacred seat of expansion; take your place within the ordered rite in us.
सु॒तऽव॑न्तः । त्वा॒ । व॒यम् । प्रय॑स्वन्तः । ह॒वा॒म॒हे॒ । इ॒दम् । नः॒ । ब॒र्हिः । आ॒ऽसदे॑ ॥सुतवन्तः । त्वा । वयम् । प्रयस्वन्तः । हवामहे । इदम् । नः । बर्हिः । आसदे ॥suta-vantaḥ | tvā | vayam | prayasvantaḥ | havāmahe | idam | naḥ | barhi ḥ | āsade