Sukta 8.65
इन्द्र गृणीष उ स्तुषे महाँ उग्र ईशानकृत् । एहि नः सुतं पिब ॥
इन्द्र॑ गृणी॒ष उ॑ स्तु॒षे म॒हाँ उ॒ग्र ई॑शान॒कृत् । एहि॑ नः सु॒तं पिब॑ ॥
índra gṛṇīṣá u stuṣé mahā́m ugrá īśāna-kṛ́t | éhi naḥ sutáṃ píba ||
Indra, I proclaim you and I praise you—great, formidable, a maker of mastery: come to us, drink the pressed Soma; enter the field of our being and strengthen the rule of the light within.
इन्द्र॑ । गृ॒णी॒षे । ऊँ॒ इति॑ । स्तु॒षे । म॒हान् । उ॒ग्रः । ई॒शा॒न॒ऽकृत् । आ । इ॒हि॒ । नः॒ । सु॒तम् । पिब॑ ॥इन्द्र । गृणीषे । ऊँ इति । स्तुषे । महान् । उग्रः । ईशानकृत् । आ । इहि । नः । सुतम् । पिब ॥indra | gṛṇīṣe | oṃ iti | stuṣe | mahān | ugraḥ | īśāna-kṛt | ā | ihi | naḥ | sutam | piba