Sukta 8.65
आ त इन्द्र महिमानं हरयो देव ते महः । रथे वहन्तु बिभ्रतः ॥
आ त॑ इन्द्र महि॒मानं॒ हर॑यो देव ते॒ मह॑: । रथे॑ वहन्तु॒ बिभ्र॑तः ॥
ā́ ta indra mahimā́naṃ hárayo deva te máhaḥ | ráthe vahantu bíbhrataḥ ||
Let your tawny powers, O Indra, carry hither your greatness and your might, O god, on the chariot—upholding it: may the dynamic energies bring the divine force into our field.
आ । ते॒ । इ॒न्द्र॒ । म॒हि॒मान॑म् । हर॑यः । दे॒व॒ । ते॒ । महः॑ । रथे॑ । व॒ह॒न्तु॒ । बिभ्र॑तः ॥आ । ते । इन्द्र । महिमानम् । हरयः । देव । ते । महः । रथे । वहन्तु । बिभ्रतः ॥ā | te | indra | mahimānam | harayaḥ | deva | te | mahaḥ | rathe | vahantu | bibhrataḥ