Sukta 8.64
कं ते दाना असक्षत वृत्रहन्कं सुवीर्या । उक्थे क उ स्विदन्तमः ॥
कं ते॑ दा॒ना अ॑सक्षत॒ वृत्र॑ह॒न्कं सु॒वीर्या॑ । उ॒क्थे क उ॑ स्वि॒दन्त॑मः ॥
káṁ te dānā́ asakṣata vṛ́tra-han káṁ su-vī́ryā | ukthé ká u svíd ántamaḥ ||
Whom have your gifts truly reached, O slayer of the Coverer? To whom has your heroic force been given? In the hymn, who is the nearest—who is most intimate to you?
कम् । ते॒ । दा॒नाः । अ॒स॒क्ष॒त॒ । वृत्र॑ऽहन् । कम् । सु॒ऽवीर्या॑ । उ॒क्थे । कः । ऊँ॒ इति॑ । स्वि॒त् । अन्त॑मः ॥कम् । ते । दानाः । असक्षत । वृत्रहन् । कम् । सुवीर्या । उक्थे । कः । ऊँ इति । स्वित् । अन्तमः ॥kam | te | dānāḥ | asakṣata | vṛtra-han | kam | su-vīryā | ukthe | kaḥ | oṃ iti | svit | antamaḥ