Sukta 8.64
कस्य स्वित्सवनं वृषा जुजुष्वाँ अव गच्छति । इन्द्रं क उ स्विदा चके ॥
कस्य॑ स्वि॒त्सव॑नं॒ वृषा॑ जुजु॒ष्वाँ अव॑ गच्छति । इन्द्रं॒ क उ॑ स्वि॒दा च॑के ॥
kásya svit sávanam vṛ́ṣā jujuṣvā́ṁ áva gacchati | índraṁ ká u svíd ā́ cake ||
To whose pressing does the Bull, the acceptor of the offering, descend and go? Who indeed has attained Indra—who has made him come near within?
कस्य॑ । स्वि॒त् । सव॑नम् । वृषा॑ । जु॒जु॒ष्वान् । अव॑ । ग॒च्छ॒ति॒ । इन्द्र॑म् । कः । ऊँ॒ इति॑ । स्वि॒त् । आ । च॒के॒ ॥कस्य । स्वित् । सवनम् । वृषा । जुजुष्वान् । अव । गच्छति । इन्द्रम् । कः । ऊँ इति । स्वित् । आ । चके ॥kasya | svit | savanam | vṛṣā | jujuṣvān | ava | gacchati | indram | kaḥ | oṃ iti | svit | ā | cake