Sukta 8.64
क्व स्य वृषभो युवा तुविग्रीवो अनानतः । ब्रह्मा कस्तं सपर्यति ॥
क्व१॒॑ स्य वृ॑ष॒भो युवा॑ तुवि॒ग्रीवो॒ अना॑नतः । ब्र॒ह्मा कस्तं स॑पर्यति ॥
kvà syá vṛṣabhó yúvā tuvi-grī́vo anā́nataḥ | brahmā́ kás táṁ saparyati ||
Where is he—that bull of power, the young one with mighty neck, who does not bow down? What inspired priest of the Word can truly serve and approach him?
क्व॑ । स्यः । वृ॒ष॒भः । युवा॑ । तु॒वि॒ऽग्रीवः॑ । अना॑नतः । ब्र॒ह्मा । कः । तम् । स॒प॒र्य॒ति॒ ॥क्व । स्यः । वृषभः । युवा । तुविग्रीवः । अनानतः । ब्रह्मा । कः । तम् । सपर्यति ॥kva | syaḥ | vṛṣabhaḥ | yuvā | tuvi-grīvaḥ | anānataḥ | brahmā | kaḥ | tam | saparyati