Sukta 8.64
त्वमीशिषे सुतानामिन्द्र त्वमसुतानाम् । त्वं राजा जनानाम् ॥
त्वमी॑शिषे सु॒ताना॒मिन्द्र॒ त्वमसु॑तानाम् । त्वं राजा॒ जना॑नाम् ॥
tvám ī́śiṣe sutā́nām índra tvám ásutānām | tváṁ rājā́ jánānām ||
Thou rulest, O Indra, over those who have pressed the Soma and over those who have not pressed; thou art the king of the peoples—sovereign of every state of the human being.
त्वम् । ई॒शि॒षे॒ । सु॒ताना॑म् । इ॒न्द्र॒ । त्वम् । असु॑तानाम् । त्वम् । राजा॑ । जना॑नाम् ॥त्वम् । ईशिषे । सुतानाम् । इन्द्र । त्वम् । असुतानाम् । त्वम् । राजा । जनानाम् ॥tvam | īśiṣe | sutānām | indra | tvam | asutānām | tvam | rājā | janānām