Sukta 8.64
अयं ते शर्यणावति सुषोमायामधि प्रियः । आर्जीकीये मदिन्तमः ॥
अ॒यं ते॑ शर्य॒णाव॑ति सु॒षोमा॑या॒मधि॑ प्रि॒यः । आ॒र्जी॒कीये॑ म॒दिन्त॑मः ॥
ayáṁ te śaryaṇā́vati suṣómāyām ádhi priyáḥ | ārjīkī́ye madíntamaḥ ||
This Soma for you—dear and set upon the well-Soma’d place of Śaryaṇāvat—here in the Ārjīkīya, most intoxicating in ecstasy: may it awaken your victorious force within us.
अ॒यम् । ते॒ । श॒र्य॒णाऽव॑ति । सु॒ऽसोमा॑याम् । अधि॑ । प्रि॒यः । आ॒र्जी॒कीये॑ । म॒दिन्ऽत॑मः ॥अयम् । ते । शर्यणावति । सुसोमायाम् । अधि । प्रियः । आर्जीकीये । मदिन्तमः ॥ayam | te | śaryaṇāvati | su-somāyām | adhi | priyaḥ | ārjīkīye | madin-tamaḥ