Sukta 8.63
इयमु ते अनुष्टुतिश्चकृषे तानि पौंस्या । प्रावश्चक्रस्य वर्तनिम् ॥
इ॒यमु॑ ते॒ अनु॑ष्टुतिश्चकृ॒षे तानि॒ पौंस्या॑ । प्राव॑श्च॒क्रस्य॑ वर्त॒निम् ॥
iyám u te ánustutiś cakṛṣe tā́ni paúṁsyā | prā́vaś cakrásya vartaním ||
This following hymn of mine I have fashioned for thee; by it I affirm those manly powers, and I widen the track of the wheel—opening the forward movement of thy force in us.
इ॒यम् । ऊँ॒ इति॑ । ते॒ । अनु॑ऽस्तुतिः । च॒कृ॒षे । तानि॑ । पौंस्या॑ । प्र । आ॒वः॒ । च॒क्रस्य॑ । व॒र्त॒निम् ॥इयम् । ऊँ इति । ते । अनुस्तुतिः । चकृषे । तानि । पौंस्या । प्र । आवः । चक्रस्य । वर्तनिम् ॥iyam | oṃ iti | te | anu-stutiḥ | cakṛṣe | tāni | paiṃsyā | pra | āvaḥ | cakrasya | vartanim