Sukta 8.63
यत्पाञ्चजन्यया विशेन्द्रे घोषा असृक्षत । अस्तृणाद्बर्हणा विपोऽर्यो मानस्य स क्षयः ॥
यत्पाञ्च॑जन्यया वि॒शेन्द्रे॒ घोषा॒ असृ॑क्षत । अस्तृ॑णाद्ब॒र्हणा॑ वि॒पो॒३॒॑ऽर्यो मान॑स्य॒ स क्षय॑: ॥
yát pā́ñca-janyayā viśéndre ghóṣā asṛ́kṣata | ástṛṇād barháṇā vipó’ryó mā́nasya sá kṣáyaḥ ||
When, for the fivefold-born human community, the cries of aspiration were released toward Indra, then the seer of inspired vision spread out the uplifting seat; that is the dwelling-place of the mind that becomes Arya—noble by inner ascent.
यत् । पाञ्च॑ऽजन्यया । वि॒शा । इन्द्रे॑ । घोषाः॑ । असृ॑क्षत । अस्तृ॑णात् । ब॒र्हणा॑ । वि॒पः । अ॒र्यः । मान॑स्य । सः । क्षयः॑ ॥यत् । पाञ्चजन्यया । विशा । इन्द्रे । घोषाः । असृक्षत । अस्तृणात् । बर्हणा । विपः । अर्यः । मानस्य । सः । क्षयः ॥yat | pāñca-janyayā | viśā | indre | ghoṣāḥ | asṛkṣata | astṛṇāt | barhaṇā | vipaḥ | aryaḥ | mānasya | saḥ | kṣayaḥ