Sukta 8.63
इन्द्रे विश्वानि वीर्या कृतानि कर्त्वानि च । यमर्का अध्वरं विदुः ॥
इन्द्रे॒ विश्वा॑नि वी॒र्या॑ कृ॒तानि॒ कर्त्वा॑नि च । यम॒र्का अ॑ध्व॒रं वि॒दुः ॥
índre víśvāni vīryā̀ kṛtā́ni kártvāṇi ca | yám arkā́ adhvaráṁ vidúḥ ||
In Indra are gathered all the hero-powers—those already accomplished and those still to be accomplished; him the illumined hymns know as the true movement of sacrifice (the inner offering-journey).
इन्द्रे॑ । विश्वा॑नि । वी॒र्या॑ । कृ॒तानि॑ । कर्त्वा॑नि । च॒ । यम् । अ॒र्काः । अ॒ध्व॒रम् । वि॒दुः ॥इन्द्रे । विश्वानि । वीर्या । कृतानि । कर्त्वानि । च । यम् । अर्काः । अध्वरम् । विदुः ॥indre | viśvāni | vīryā | kṛtāni | kartvāni | ca | yam | arkāḥ | adhvaram | viduḥ