Sukta 8.63
आदू नु ते अनु क्रतुं स्वाहा वरस्य यज्यवः । श्वात्रमर्का अनूषतेन्द्र गोत्रस्य दावने ॥
आदू॒ नु ते॒ अनु॒ क्रतुं॒ स्वाहा॒ वर॑स्य॒ यज्य॑वः । श्वा॒त्रम॒र्का अ॑नूष॒तेन्द्र॑ गो॒त्रस्य॑ दा॒वने॑ ॥
ādū́ nú te ánu krátum svā́hā várasya yájyavaḥ | śvātrám arkā́ anūṣaténdra gotrásya dā́vane ||
Now indeed, following your effective will, the worshippers offer with svāhā the chosen delight. The hymns have sounded the mighty strength, O Indra, for the giving of the luminous herds (the treasures of light).
आत् । ऊँ॒ इति॑ । नु । ते॒ । अनु॑ । क्रतु॑म् । स्वाहा॑ । वर॑स्य । यज्य॑वः । श्वा॒त्रम् । अ॒र्काः । अ॒नू॒ष॒त॒ । इन्द्र॑ । गो॒त्रस्य॑ । दा॒वने॑ ॥आत् । ऊँ इति । नु । ते । अनु । क्रतुम् । स्वाहा । वरस्य । यज्यवः । श्वात्रम् । अर्काः । अनूषत । इन्द्र । गोत्रस्य । दावने ॥āt | oṃ iti | nu | te | anu | kratum | svāhā | varasya | yajyavaḥ | śvātram | arkāḥ | anūṣata | indra | gotrasya | dāvane