Sukta 8.63
स प्रत्नथा कविवृध इन्द्रो वाकस्य वक्षणिः । शिवो अर्कस्य होमन्यस्मत्रा गन्त्ववसे ॥
स प्र॒त्नथा॑ कविवृ॒ध इन्द्रो॑ वा॒कस्य॑ व॒क्षणि॑: । शि॒वो अ॒र्कस्य॒ होम॑न्यस्म॒त्रा ग॒न्त्वव॑से ॥
sá pratnáthā kavi-vṛdhá índro vākásya vakṣáṇiḥ | śivó arkásya hómani asma-trā́ gántv ávase ||
From of old, increasing the seers, Indra is the carrier of the Word. Kindly, to the offering-place of the hymn, let him come here to our side for help.
सः । प्र॒त्नऽथा॑ । क॒वि॒ऽवृ॒धः । इन्द्रः॑ । वा॒कस्य॑ । व॒क्षणिः॑ । शि॒वः । अ॒र्कस्य॑ । होम॑नि । अ॒स्म॒ऽत्रा । ग॒न्तु॒ । अव॑से ॥सः । प्रत्नथा । कविवृधः । इन्द्रः । वाकस्य । वक्षणिः । शिवः । अर्कस्य । होमनि । अस्मत्रा । गन्तु । अवसे ॥saḥ | pratna-thā | kavi-vṛdhaḥ | indraḥ | vākasya | vakṣaṇiḥ | śivaḥ | arkasya | homani | asma-trā | gantu | avase