Sukta 8.63
स विद्वाँ अङ्गिरोभ्य इन्द्रो गा अवृणोदप । स्तुषे तदस्य पौंस्यम् ॥
स वि॒द्वाँ अङ्गि॑रोभ्य॒ इन्द्रो॒ गा अ॑वृणो॒दप॑ । स्तु॒षे तद॑स्य॒ पौंस्य॑म् ॥
sá vidvā́ṃ aṅgírobhya índro gā́ avṛṇod ápa | stúṣe tád asya páuṃsyam ||
He, the knower—Indra—opened out the rays (the cows of light) for the Aṅgirasas. I praise that his manhood-force, his victorious power of the soul.
सः । वि॒द्वाँन् । अङ्गि॑रःऽभ्यः । इन्द्रः॑ । गाः । अ॒वृ॒णो॒त् । अप॑ । स्तु॒षे । तत् । अ॒स्य॒ । पौंस्य॑म् ॥सः । विद्वाँन् । अङ्गिरःभ्यः । इन्द्रः । गाः । अवृणोत् । अप । स्तुषे । तत् । अस्य । पौंस्यम् ॥saḥ | vidvāṃn | aṅgiraḥ-bhyaḥ | indraḥ | gāḥ | avṛṇot | apa | stuṣe | tat | asya | paiṃsyam