Sukta 8.62
समनेव वपुष्यतः कृणवन्मानुषा युगा । विदे तदिन्द्रश्चेतनमध श्रुतो भद्रा इन्द्रस्य रातयः ॥
सम॑नेव वपुष्य॒तः कृ॒णव॒न्मानु॑षा यु॒गा । वि॒दे तदिन्द्र॒श्चेत॑न॒मध॑ श्रु॒तो भ॒द्रा इन्द्र॑स्य रा॒तय॑: ॥
samānēva vapuṣyatáḥ kṛṇávān mā́nuṣā yugā́ | vidé tád índraś cétanam ádha śrutó bhadrā́ índrasya rātáyaḥ ||
As one who fashions forms, he has shaped the human ages. This perception of Indra is to be known; then he is heard within. Auspicious are the gifts of Indra.
सम॑नाऽइव । व॒पु॒ष्य॒तः । कृ॒णव॑त् । मानु॑षा । यु॒गा । वि॒दे । तत् । इन्द्रः॑ । चेत॑नम् । अध॑ । श्रु॒तः । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥समनाइव । वपुष्यतः । कृणवत् । मानुषा । युगा । विदे । तत् । इन्द्रः । चेतनम् । अध । श्रुतः । भद्राः । इन्द्रस्य । रातयः ॥samanāiva | vapuṣyataḥ | kṛṇavat | mānuṣā | yugā | vide | tat | indraḥ | cetanam | agha | śrutaḥ | bhadrāḥ | indrasya | rātayaḥ