Sukta 8.62
गृणे तदिन्द्र ते शव उपमं देवतातये । यद्धंसि वृत्रमोजसा शचीपते भद्रा इन्द्रस्य रातयः ॥
गृ॒णे तदि॑न्द्र ते॒ शव॑ उप॒मं दे॒वता॑तये । यद्धंसि॑ वृ॒त्रमोज॑सा शचीपते भ॒द्रा इन्द्र॑स्य रा॒तय॑: ॥
gṛṇé tád índra te śáva úpamam devátātaye | yád háṃsi vṛtrám ójasā śacī-pate bhadrā́ índrasya rātáyaḥ ||
I affirm and sing of that, O Indra—your surpassing force for the becoming of the divine powers within us: when by your might you strike down Vṛtra, O lord of the luminous intelligence. Auspicious are the gifts of Indra.
गृ॒णे । तत् । इ॒न्द्र॒ । ते॒ । शवः॑ । उ॒प॒ऽमम् । दे॒वऽता॑तये । यत् । हंसि॑ । वृ॒त्रम् । ओज॑सा । श॒ची॒ऽप॒ते॒ । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥गृणे । तत् । इन्द्र । ते । शवः । उपमम् । देवतातये । यत् । हंसि । वृत्रम् । ओजसा । शचीपते । भद्राः । इन्द्रस्य । रातयः ॥gṛṇe | tat | indra | te | śavaḥ | upa-mam | deva-tātaye | yat | haṃsi | vṛtram | ojasā | śacī-pate | bhadrāḥ | indrasya | rātayaḥ