Sukta 8.62
उज्जातमिन्द्र ते शव उत्त्वामुत्तव क्रतुम् । भूरिगो भूरि वावृधुर्मघवन्तव शर्मणि भद्रा इन्द्रस्य रातयः ॥
उज्जा॒तमि॑न्द्र ते॒ शव॒ उत्त्वामुत्तव॒ क्रतु॑म् । भूरि॑गो॒ भूरि॑ वावृधु॒र्मघ॑व॒न्तव॒ शर्म॑णि भ॒द्रा इन्द्र॑स्य रा॒तय॑: ॥
új-jātam indra te śáva út tvām út táva krátum | bhū́rigo bhū́ri vāvṛdhur mághavan táva śármaṇi bhadrā́ índrasya rātáyaḥ ||
Up has arisen, O Indra, your force—up you, and up your will of effective intelligence. The bringers of plenitude have increased greatly in your peace and shelter, O bounteous one. Auspicious are the gifts of Indra.
उत् । जा॒तम् । इ॒न्द्र॒ । ते॒ । शवः॑ । उत् । त्वाम् । उत् । तव॑ । क्रतु॑म् । भूरि॑गो॒ इति॒ भूरि॑ऽगो । भूरि॑ । व॒वृ॒धुः॒ । मघ॑ऽवन् । तव॑ । शर्म॑णि । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥उत् । जातम् । इन्द्र । ते । शवः । उत् । त्वाम् । उत् । तव । क्रतुम् । भूरिगो इति भूरिगो । भूरि । ववृधुः । मघवन् । तव । शर्मणि । भद्राः । इन्द्रस्य । रातयः ॥ut | jātam | indra | te | śavaḥ | ut | tvām | ut | tava | kratum | bhūrigo itibhūri-go | bhūri | vavṛdhuḥ | magha-van | tava | śarmaṇi | bhadrāḥ | indrasya | rātayaḥ