Sukta 8.62
विश्वे त इन्द्र वीर्यं देवा अनु क्रतुं ददुः । भुवो विश्वस्य गोपतिः पुरुष्टुत भद्रा इन्द्रस्य रातयः ॥
विश्वे॑ त इन्द्र वी॒र्यं॑ दे॒वा अनु॒ क्रतुं॑ ददुः । भुवो॒ विश्व॑स्य॒ गोप॑तिः पुरुष्टुत भ॒द्रा इन्द्र॑स्य रा॒तय॑: ॥
viśvé te indra vī́ryaṃ devā́ ánu krátum daduḥ | bhúvo viśvásya gopátiḥ puruṣṭuta bhadrā́ índrasya rātáyaḥ ||
All the gods have given to you, O Indra, the heroic power in accordance with the will. You have become the guardian-lord of all becoming, O much-praised; auspicious are the gifts of Indra.
विश्वे॑ । ते॒ । इ॒न्द्र॒ । वी॒र्य॑म् । दे॒वाः । अनु॑ । क्रतु॑म् । द॒दुः॒ । भुवः॑ । विश्व॑स्य । गोऽप॑तिः । पु॒रु॒ऽस्तु॒त॒ । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥विश्वे । ते । इन्द्र । वीर्यम् । देवाः । अनु । क्रतुम् । ददुः । भुवः । विश्वस्य । गोपतिः । पुरुस्तुत । भद्राः । इन्द्रस्य । रातयः ॥viśve | te | indra | vīryam | devāḥ | anu | kratum | daduḥ | bhuvaḥ | viśvasya | go--patiḥ | puru-stuta | bhadrāḥ | indrasya | rātayaḥ