Sukta 8.62
अव चष्ट ऋचीषमोऽवताँ इव मानुषः । जुष्ट्वी दक्षस्य सोमिनः सखायं कृणुते युजं भद्रा इन्द्रस्य रातयः ॥
अव॑ चष्ट॒ ऋची॑षमोऽव॒ताँ इ॑व॒ मानु॑षः । जु॒ष्ट्वी दक्ष॑स्य सो॒मिन॒: सखा॑यं कृणुते॒ युजं॑ भ॒द्रा इन्द्र॑स्य रा॒तय॑: ॥
áva caṣṭa ṛcī́ṣamo’vatā́ṃ iva mā́nuṣaḥ | juṣṭvī́ dákṣasya somínaḥ sákhāyaṃ kṛṇute yújaṃ bhadrā́ índrasya rātáyaḥ ||
The wise in hymns looks down like one who has the means, a human among humans. Having found delight in skill, the Soma-offerer makes Indra a comrade and a yoked ally. Auspicious are the gifts of Indra.
अव॑ । च॒ष्टे॒ । ऋची॑षमः । अ॒व॒तान्ऽइ॑व । मानु॑षः । जु॒ष्ट्वी । दक्ष॑स्य । सो॒मिनः॑ । सखा॑यम् । कृ॒णु॒ते॒ । युज॑म् । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥अव । चष्टे । ऋचीषमः । अवतान्इव । मानुषः । जुष्ट्वी । दक्षस्य । सोमिनः । सखायम् । कृणुते । युजम् । भद्राः । इन्द्रस्य । रातयः ॥ava | caṣṭe | ṛcīṣamaḥ | avatān-iva | mānuṣaḥ | juṣṭavī | dakṣasya | sominaḥ | sakhāyam | kṛṇute | yujam | bhadrāḥ | indrasya | rātayaḥ