Sukta 8.62
धृषतश्चिद्धृषन्मनः कृणोषीन्द्र यत्त्वम् । तीव्रैः सोमैः सपर्यतो नमोभिः प्रतिभूषतो भद्रा इन्द्रस्य रातयः ॥
धृ॒ष॒तश्चि॑द्धृ॒षन्मन॑: कृ॒णोषी॑न्द्र॒ यत्त्वम् । ती॒व्रैः सोमै॑: सपर्य॒तो नमो॑भिः प्रति॒भूष॑तो भ॒द्रा इन्द्र॑स्य रा॒तय॑: ॥
dhṛṣatáś cid dhṛṣán manaḥ kṛṇóṣīndra yát tvám | tīvráiḥ sómaiḥ saparyató námo-bhiḥ pratibhū́ṣato bhadrā́ índrasya rātáyaḥ ||
Even of the daring you make the mind more daring, O Indra, when you are served with keen Soma and with acts of homage that set the being in readiness. Auspicious are the gifts of Indra.
धृ॒ष॒तः । चि॒त् । धृ॒षत् । मनः॑ । कृ॒णोषि॑ । इ॒न्द्र॒ । यत् । त्वम् । ती॒व्रैः । सोमैः॑ । स॒प॒र्य॒तः । नमः॑ऽभिः । प्र॒ति॒ऽभूष॑तः । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥धृषतः । चित् । धृषत् । मनः । कृणोषि । इन्द्र । यत् । त्वम् । तीव्रैः । सोमैः । सपर्यतः । नमःभिः । प्रतिभूषतः । भद्राः । इन्द्रस्य । रातयः ॥dhṛṣataḥ | cit | dhṛṣat | manaḥ | kṛṇoṣi | indra | yat | tvam | tīvraiḥ | somaiḥ | saparyataḥ | namaḥ-bhiḥ | prati-bhūṣataḥ | bhadrāḥ | indrasya | rātayaḥ