Sukta 8.62
अहितेन चिदर्वता जीरदानुः सिषासति । प्रवाच्यमिन्द्र तत्तव वीर्याणि करिष्यतो भद्रा इन्द्रस्य रातयः ॥
अहि॑तेन चि॒दर्व॑ता जी॒रदा॑नुः सिषासति । प्र॒वाच्य॑मिन्द्र॒ तत्तव॑ वी॒र्या॑णि करिष्य॒तो भ॒द्रा इन्द्र॑स्य रा॒तय॑: ॥
ahiténa cid árvātā jīrá-dānuḥ siṣāsati | pravā́cyam indra tát tava vīryā̀ṇi kariṣyató bhadrā́ índrasya rātáyaḥ ||
Even with an unfriendly steed, the swift giver strives to win; O Indra, that is to be proclaimed—your heroic powers for the doer who would accomplish. Auspicious are the gifts of Indra.
अहि॑तेन । चि॒त् । अर्व॑ता । जी॒रऽदा॑नुः । सि॒षा॒स॒ति॒ । प्र॒ऽवाच्य॑म् । इ॒न्द्र॒ । तत् । तव॑ । वी॒र्या॑णि । क॒रि॒ष्य॒तः । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥अहितेन । चित् । अर्वता । जीरदानुः । सिषासति । प्रवाच्यम् । इन्द्र । तत् । तव । वीर्याणि । करिष्यतः । भद्राः । इन्द्रस्य । रातयः ॥ahitena | cit | arvatā | jīra-dānuḥ | siṣāsati | pra-vācyam | indra | tat | tava | vīryāṇi | kariṣyataḥ | bhadrāḥ | indrasya | rātayaḥ