Sukta 8.62
अयुजो असमो नृभिरेकः कृष्टीरयास्यः । पूर्वीरति प्र वावृधे विश्वा जातान्योजसा भद्रा इन्द्रस्य रातयः ॥
अ॒यु॒जो अस॑मो॒ नृभि॒रेक॑: कृ॒ष्टीर॒यास्य॑: । पू॒र्वीरति॒ प्र वा॑वृधे॒ विश्वा॑ जा॒तान्योज॑सा भ॒द्रा इन्द्र॑स्य रा॒तय॑: ॥
ayujó ásamo nṛ́bhir ékaḥ kṛṣṭī́r ayā́syaḥ | pūrvī́r áti prá vāvṛdhe víśvā jātā́ny ójasā bhadrā́ índrasya rātáyaḥ ||
Unyoked, unmatched among men, one alone, tireless—he has outgrown the many peoples. He has increased beyond the former limits; by his force he has mastered all that is born. Auspicious are the gifts of Indra.
अ॒यु॒जः । अस॑मः । नृऽभिः॑ । एकः॑ । कृ॒ष्टीः । अ॒यास्यः॑ । पू॒र्वीः । अति॑ । प्र । व॒वृ॒धे॒ । विश्वा॑ । जा॒तानि॑ । ओज॑सा । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥अयुजः । असमः । नृभिः । एकः । कृष्टीः । अयास्यः । पूर्वीः । अति । प्र । ववृधे । विश्वा । जातानि । ओजसा । भद्राः । इन्द्रस्य । रातयः ॥ayujaḥ | asamaḥ | nṛ-bhiḥ | ekaḥ | kṛṣṭīḥ | ayāsyaḥ | pūrvīḥ | ati | pra | vavṛdhe | viśvā | jātāni | ojasā | bhadrāḥ | indrasya | rātayaḥ