Sukta 8.62
प्रो अस्मा उपस्तुतिं भरता यज्जुजोषति । उक्थैरिन्द्रस्य माहिनं वयो वर्धन्ति सोमिनो भद्रा इन्द्रस्य रातयः ॥
प्रो अ॑स्मा॒ उप॑स्तुतिं॒ भर॑ता॒ यज्जुजो॑षति । उ॒क्थैरिन्द्र॑स्य॒ माहि॑नं॒ वयो॑ वर्धन्ति सो॒मिनो॑ भ॒द्रा इन्द्र॑स्य रा॒तय॑: ॥
pró asmai upástutiṃ bháratā yáj jujoṣáti | ukthaíḥ índrasya mā́hinaṃ váyo vardhanti somíno bhadrā́ índrasya rātáyaḥ ||
Bring forward to him the hymn of uplift, for he takes delight in it. With the chants the Soma-offerers increase Indra’s greatness and the growth of our being; auspicious are the gifts of Indra.
प्रो इति॑ । अ॒स्मै॒ । उप॑ऽस्तुति॑म् । भर॑त । यत् । जुजो॑षति । उ॒क्थैः । इन्द्र॑स्य । माहि॑नम् । वयः॑ । व॒र्ध॒न्ति॒ । सो॒मिनः॑ । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥प्रो इति । अस्मै । उपस्तुतिम् । भरत । यत् । जुजोषति । उक्थैः । इन्द्रस्य । माहिनम् । वयः । वर्धन्ति । सोमिनः । भद्राः । इन्द्रस्य । रातयः ॥pro iti | asmai | upa-stutim | bharata | yat | jujoṣati | ukthaiḥ | indrasya | māhinam | vayaḥ | vardhanti | sominaḥ | bhadrāḥ | indrasya | rātayaḥ