Sukta 8.62
अहं च त्वं च वृत्रहन्त्सं युज्याव सनिभ्य आ । अरातीवा चिदद्रिवोऽनु नौ शूर मंसते भद्रा इन्द्रस्य रातयः ॥
अ॒हं च॒ त्वं च॑ वृत्रह॒न्त्सं यु॑ज्याव स॒निभ्य॒ आ । अ॒रा॒ती॒वा चि॑दद्रि॒वोऽनु॑ नौ शूर मंसते भ॒द्रा इन्द्र॑स्य रा॒तय॑: ॥
aháṃ ca tváṃ ca vṛtra-han tsáṃ yujyāva saníbhya ā́ | arātī-vā́ cid adri-vo'ánu nau śūra maṃsate bhadrā́ índrasya rātáyaḥ ||
I and you together, O slayer of Vṛtra, are yoked for the winning. Even the hostile will, O wielder of the thunderstone, follows our path of striving, O hero. Auspicious are the gifts of Indra.
अ॒हम् । च॒ । त्वम् । च॒ । वृ॒त्र॒ऽह॒न् । सम् । यु॒ज्या॒व॒ । स॒निऽभ्यः॑ । आ । अ॒रा॒ति॒ऽवा । चि॒त् । अ॒द्रि॒ऽवः॒ । अनु॑ । नौ॒ । शू॒र॒ । मं॒स॒ते॒ । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥अहम् । च । त्वम् । च । वृत्रहन् । सम् । युज्याव । सनिभ्यः । आ । अरातिवा । चित् । अद्रिवः । अनु । नौ । शूर । मंसते । भद्राः । इन्द्रस्य । रातयः ॥aham | ca | tvam | ca | vṛtra-han | sam | yujyāva | sani-bhyaḥ | ā | arāti-vā | ci t | adri-vaḥ | anu | nau | śūra | maṃsate | bhadrāḥ | indrasya | rātayaḥ