Sukta 8.62
सत्यमिद्वा उ तं वयमिन्द्रं स्तवाम नानृतम् । महाँ असुन्वतो वधो भूरि ज्योतींषि सुन्वतो भद्रा इन्द्रस्य रातयः ॥
स॒त्यमिद्वा उ॒ तं व॒यमिन्द्रं॑ स्तवाम॒ नानृ॑तम् । म॒हाँ असु॑न्वतो व॒धो भूरि॒ ज्योतीं॑षि सुन्व॒तो भ॒द्रा इन्द्र॑स्य रा॒तय॑: ॥
satyám íd vā́ u táṃ vayám índraṃ stavāma nā́nṛtam | mahā́ṃ ásunvato vadhó bhū́ri jyótīṃṣi sunvató bhadrā́ índrasya rātáyaḥ ||
Truly indeed that Indra we praise, not falsehood. Great is the smiting for the one who does not press Soma; but for the Soma-presser there are many lights. Auspicious are the gifts of Indra.
स॒त्यम् । इर् । वै । ऊँ॒ इति॑ । तम् । व॒यम् । इन्द्र॑म् । स्त॒वा॒म॒ । न । अनृ॑तम् । म॒हान् । असु॑न्वतः । व॒धः । भूरि॑ । ज्योतीं॑षि । सु॒न्व॒तः । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥सत्यम् । इर् । वै । ऊँ इति । तम् । वयम् । इन्द्रम् । स्तवाम । न । अनृतम् । महान् । असुन्वतः । वधः । भूरि । ज्योतींषि । सुन्वतः । भद्राः । इन्द्रस्य । रातयः ॥satyam | ir | vai | oṃ iti | tam | vayam | indram | stavāma | na | anṛtam | mahān | asunvataḥ | vadhaḥ | bhūri | jyotīṃṣi | sunvataḥ | bhadrāḥ | indrasya | rātayaḥ