Sukta 8.61
त्वं पुरू सहस्राणि शतानि च यूथा दानाय मंहसे । आ पुरंदरं चकृम विप्रवचस इन्द्रं गायन्तोऽवसे ॥
त्वं पु॒रू स॒हस्रा॑णि श॒तानि॑ च यू॒था दा॒नाय॑ मंहसे । आ पु॑रंद॒रं च॑कृम॒ विप्र॑वचस॒ इन्द्रं॒ गाय॒न्तोऽव॑से ॥
tváṃ purū́ sahásrāṇi śatā́ni ca yūthā́ dānā́ya maṃhase | ā́ purandaráṃ cakṛmá vípra-vacasa índraṃ gāyánto ávase ||
You heap up many thousands and hundreds in herds for the giving—your lavishness of plenitude. We, the seers of inspired speech, have made Indra the breaker of the closed places our near presence by our singing, for help.
त्वम् । पु॒रु । स॒हस्रा॑णि । श॒तानि॑ । च॒ । यू॒था । दा॒नाय॑ । मं॒ह॒से॒ । आ । पु॒र॒म्ऽद॒रम् । च॒कृ॒म॒ । विप्र॑ऽवचसः । इन्द्र॑म् । गाय॑न्तः । अव॑से ॥त्वम् । पुरु । सहस्राणि । शतानि । च । यूथा । दानाय । मंहसे । आ । पुरम्दरम् । चकृम । विप्रवचसः । इन्द्रम् । गायन्तः । अवसे ॥tvam | puru | sahasrāṇi | śatāni | ca | yūthā | dānāya | maṃhase | ā | puram-daram | cakṛma | vipra-vacasaḥ | indram | gāyantaḥ | avase