Sukta 8.61
त्वं ह्येहि चेरवे विदा भगं वसुत्तये । उद्वावृषस्व मघवन्गविष्टय उदिन्द्राश्वमिष्टये ॥
त्वं ह्येहि॒ चेर॑वे वि॒दा भगं॒ वसु॑त्तये । उद्वा॑वृषस्व मघव॒न्गवि॑ष्टय॒ उदि॒न्द्राश्व॑मिष्टये ॥
tváṃ hy éhi cérave vidā́ bhágaṃ vásuttaye | úd vā́vṛṣasva maghavan gáviṣṭaya úd índrā́śvam iṣṭáye ||
Come indeed to the moving seeker; reveal the Bhaga, the portion of delight, for our increase of true wealth. Rise up and pour yourself out, O Maghavan, for the winning of the Rays; rise up, O Indra, for the winning of the Horse-force.
त्वम् । हि । आ । इ॒हि॒ । चेर॑वे । वि॒दाः । भग॑म् । वसु॑त्तये । उत् । व॒वृ॒ष॒स्व॒ । म॒घ॒ऽव॒न् । गोऽइ॑ष्टये । उत् । इ॒न्द्र॒ । अश्व॑म्ऽइष्टये ॥त्वम् । हि । आ । इहि । चेरवे । विदाः । भगम् । वसुत्तये । उत् । ववृषस्व । मघवन् । गोइष्टये । उत् । इन्द्र । अश्वम्इष्टये ॥tvam | hi | ā | ihi | cerave | vidāḥ | bhagam | vasuttaye | ut | vavṛṣasva | magha-van | go--iṣṭaye | ut | indra | aśvam-iṣṭaye