Sukta 8.61
अप्रामिसत्य मघवन्तथेदसदिन्द्र क्रत्वा यथा वशः । सनेम वाजं तव शिप्रिन्नवसा मक्षू चिद्यन्तो अद्रिवः ॥
अप्रा॑मिसत्य मघव॒न्तथेद॑स॒दिन्द्र॒ क्रत्वा॒ यथा॒ वश॑: । स॒नेम॒ वाजं॒ तव॑ शिप्रि॒न्नव॑सा म॒क्षू चि॒द्यन्तो॑ अद्रिवः ॥
aprā́mi-satya maghaván táthéd asad índra krátvā yáthā váśaḥ | sanéma vā́jaṃ táva śiprin ávasā makṣū́ cid yánto adri-vaḥ ||
O bounteous one whose truth does not fail, let it be so, O Indra, by your will and power, as you choose. May we win by your help the plenitude of force, O strong-jawed one, even swiftly as we advance, O wielder of the stone.
अप्रा॑मिऽसत्य । म॒घ॒ऽव॒न् । तथा॑ । इत् । अ॒स॒त् । इन्द्र॑ । क्रत्वा॑ । यथा॑ । वशः॑ । स॒नेम॑ । वाज॑म् । तव॑ । शि॒प्रि॒न् । अव॑सा । म॒क्षु । चि॒त् । यन्तः॑ । अ॒द्रि॒ऽवः॒ ॥अप्रामिसत्य । मघवन् । तथा । इत् । असत् । इन्द्र । क्रत्वा । यथा । वशः । सनेम । वाजम् । तव । शिप्रिन् । अवसा । मक्षु । चित् । यन्तः । अद्रिवः ॥aprāmi-satya | magha-van | tathā | it | asat | indra | kratvā | yathā | vaśaḥ | sanema | vājam | tava | śiprin | avasā | makṣu | cit | yantaḥ | adri-vaḥ