Sukta 8.61
आ वृषस्व पुरूवसो सुतस्येन्द्रान्धसः । विद्मा हि त्वा हरिवः पृत्सु सासहिमधृष्टं चिद्दधृष्वणिम् ॥
आ वृ॑षस्व पुरूवसो सु॒तस्ये॒न्द्रान्ध॑सः । वि॒द्मा हि त्वा॑ हरिवः पृ॒त्सु सा॑स॒हिमधृ॑ष्टं चिद्दधृ॒ष्वणि॑म् ॥
ā́ vṛṣasva purūvaso sutásyéndrā́ndhasaḥ | vidmā́ hí tvā hari-vaḥ pṛtsú sāsahím ádhṛṣṭaṃ cid dadhṛ́ṣvaṇim ||
Pour yourself out, O Indra rich in abundance, upon the pressed Soma’s ecstasy. For we know you, O lord of the bright steeds, as the conqueror in battles, daring even where none can withstand.
आ । वृ॒ष॒स्व॒ । पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो । सु॒तस्य॑ । इ॒न्द्र॒ । अन्ध॑सः । वि॒द्म । हि । त्वा॒ । ह॒रि॒ऽवः॒ । पृ॒त्ऽसु । स॒स॒हिम् । अधृ॑ष्टम् । चि॒त् । द॒धृ॒ष्वणि॑म् ॥आ । वृषस्व । पुरुवसो इति पुरुवसो । सुतस्य । इन्द्र । अन्धसः । विद्म । हि । त्वा । हरिवः । पृत्सु । ससहिम् । अधृष्टम् । चित् । दधृष्वणिम् ॥ā | vṛṣasva | puruvaso itipuru-vaso | sutasya | indra | andhasaḥ | vidma | hi | tvā | hari-vaḥ | pṛt-su | sasahim | adhṛṣṭam | cit | dadhṛṣvaṇim