Sukta 8.61
तं हि स्वराजं वृषभं तमोजसे धिषणे निष्टतक्षतुः । उतोपमानां प्रथमो नि षीदसि सोमकामं हि ते मनः ॥
तं हि स्व॒राजं॑ वृष॒भं तमोज॑से धि॒षणे॑ निष्टत॒क्षतु॑: । उ॒तोप॒मानां॑ प्रथ॒मो नि षी॑दसि॒ सोम॑कामं॒ हि ते॒ मन॑: ॥
táṃ hí sva-rā́jaṃ vṛṣabháṃ tám ójase dhiṣáṇe niṣ-tatakṣátuḥ | utópa-mā́nāṃ prathamó ní ṣīdasi sóma-kā́maṃ hí te mánaḥ ||
For him—the self-ruler, the bull—they have fashioned by their inspired powers for strength. And among those who are to be compared, you sit first; for your mind indeed desires Soma.
तम् । हि । स्व॒ऽराज॑म् । वृ॒ष॒भम् । तम् । ओज॑से । धि॒षणे॑ । निः॒ऽत॒त॒क्षतुः॑ । उ॒त । उ॒प॒ऽमाना॑म् । प्र॒थ॒मः । नि । सी॒द॒सि॒ । सोम॑ऽकामम् । हि । ते॒ । मनः॑ ॥तम् । हि । स्वराजम् । वृषभम् । तम् । ओजसे । धिषणे । निःततक्षतुः । उत । उपमानाम् । प्रथमः । नि । सीदसि । सोमकामम् । हि । ते । मनः ॥tam | hi | sva-rājam | vṛṣabham | tam | ojase | dhiṣaṇe | niḥ-tatakṣatuḥ | uta | upa-mānām | prathamaḥ | ni | sīdasi | soma-kāmam | hi | te | manaḥ