Sukta 8.61
उभयं शृणवच्च न इन्द्रो अर्वागिदं वचः । सत्राच्या मघवा सोमपीतये धिया शविष्ठ आ गमत् ॥
उ॒भयं॑ शृ॒णव॑च्च न॒ इन्द्रो॑ अ॒र्वागि॒दं वच॑: । स॒त्राच्या॑ म॒घवा॒ सोम॑पीतये धि॒या शवि॑ष्ठ॒ आ ग॑मत् ॥
ubháyaṃ śṛṇávac ca na índro arvā́g idáṃ vácaḥ | satrā́cyā maghávā sóma-pītaye dhiyā́ śáviṣṭha ā́ gamat ||
May Indra hear for us from both sides and come near to this word. Let the bounteous one, moving straight in his course, come by the power of thought to the drinking of Soma—the most mighty—arriving to us.
उ॒भय॑म् । शृ॒णव॑त् । च॒ । नः॒ । इन्द्रः॑ । अ॒र्वाक् । इ॒दम् । वचः॑ । स॒त्राच्या॑ । म॒घऽवा॑ । सोम॑ऽपीतये । धि॒या । शवि॑ष्ठः । आ । ग॒म॒त् ॥उभयम् । शृणवत् । च । नः । इन्द्रः । अर्वाक् । इदम् । वचः । सत्राच्या । मघवा । सोमपीतये । धिया । शविष्ठः । आ । गमत् ॥ubhayam | śṛṇavat | ca | naḥ | indraḥ | arvāk | idam | vacaḥ | satrācyā | magha-vā | soma-pītaye | dhiyā | śaviṣṭhaḥ | ā | gamat