Sukta 8.61
त्वं नः पश्चादधरादुत्तरात्पुर इन्द्र नि पाहि विश्वतः । आरे अस्मत्कृणुहि दैव्यं भयमारे हेतीरदेवीः ॥
त्वं न॑: प॒श्चाद॑ध॒रादु॑त्त॒रात्पु॒र इन्द्र॒ नि पा॑हि वि॒श्वत॑: । आ॒रे अ॒स्मत्कृ॑णुहि॒ दैव्यं॑ भ॒यमा॒रे हे॒तीरदे॑वीः ॥
tváṃ naḥ paścā́d adharā́d uttarā́t púra índra ní pāhi viśvátaḥ | āré asmát kṛṇuhi daívyam bhayám āré hetī́r adevī́ḥ ||
O Indra, guard us firmly from behind and from below and from above and in front, from every side. Drive far away from us the fear that comes from the beyond; drive far away the hostile strokes, the undivine forces.
त्वम् । नः॒ । प॒श्चात् । अ॒ध॒रात् । उ॒त्त॒रात् । पु॒रः । इन्द्र॑ । नि । पा॒हि॒ । वि॒श्वतः॑ । आ॒रे । अ॒स्मत् । कृ॒णु॒हि॒ । दैव्य॑म् । भ॒यम् । आ॒रे । हे॒तीः । अदे॑वीः ॥त्वम् । नः । पश्चात् । अधरात् । उत्तरात् । पुरः । इन्द्र । नि । पाहि । विश्वतः । आरे । अस्मत् । कृणुहि । दैव्यम् । भयम् । आरे । हेतीः । अदेवीः ॥tvam | naḥ | paścāt | adharāt | uttarāt | puraḥ | indra | ni | pāhi | viśvataḥ | āre | asmat | kṛṇuhi | daivyam | bhayam | āre | hetīḥ | adevīḥ