Sukta 8.61
त्वं हि राधस्पते राधसो महः क्षयस्यासि विधतः । तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे ॥
त्वं हि रा॑धस्पते॒ राध॑सो म॒हः क्षय॒स्यासि॑ विध॒तः । तं त्वा॑ व॒यं म॑घवन्निन्द्र गिर्वणः सु॒ताव॑न्तो हवामहे ॥
tváṃ hí rā́dhas-pate rā́dhaso maháḥ kṣáyasyaási vidhatáḥ | táṃ tvā vayáṃ maghavann índra girvaṇaḥ sutā́vanto havāmahe ||
You indeed are lord of the radiance-gift, the dweller-master of the great abundance for the worshipper. Therefore we, having the pressed Soma, invoke you—O Maghavan Indra, delighting in the songs—for your effective presence.
त्वम् । हि । रा॒धः॒ऽप॒ते॒ । राध॑सः । म॒हः । क्षय॑स्य । असि॑ । वि॒ध॒तः । तम् । त्वा॒ । व॒यम् । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । गि॒र्व॒णः॒ । सु॒तऽव॑न्तः । ह॒वा॒म॒हे॒ ॥त्वम् । हि । राधःपते । राधसः । महः । क्षयस्य । असि । विधतः । तम् । त्वा । वयम् । मघवन् । इन्द्र । गिर्वणः । सुतवन्तः । हवामहे ॥tvam | hi | rādhaḥ-pate | rādhasaḥ | mahaḥ | kṣayasya | asi | vidhataḥ | tam | tvā | vayam | magha-van | indra | girvaṇaḥ | suta-vantaḥ | havāmahe