Sukta 8.61
उग्रं युयुज्म पृतनासु सासहिमृणकातिमदाभ्यम् । वेदा भृमं चित्सनिता रथीतमो वाजिनं यमिदू नशत् ॥
उ॒ग्रं यु॑युज्म॒ पृत॑नासु सास॒हिमृ॒णका॑ति॒मदा॑भ्यम् । वेदा॑ भृ॒मं चि॒त्सनि॑ता र॒थीत॑मो वा॒जिनं॒ यमिदू॒ नश॑त् ॥
ugráṃ yuyujma pṛ́tanāsu sāsahím ṛṇá-kātim ádābhyam | védā bhṛmáṃ cít sánitā rathī́-tamo vā́jinaṃ yám íd ū́ṃ naśat ||
We yoke the fierce Power in the battles, the unconquerable who overcomes, who cuts away the binding debt. He knows even the turning confusion and yet wins; the best of charioteers attains the plenitude of force that indeed comes to him.
उ॒ग्रम् । यु॒यु॒ज्म॒ । पृत॑नासु । स॒स॒हिम् । ऋ॒णऽका॑तिम् । अदा॑भ्यम् । वेद॑ । भृ॒मम् । चि॒त् । सनि॑ता । र॒थिऽत॑मः । वा॒जिन॑म् । यम् । इत् । ऊँ॒ इति॑ । नश॑त् ॥उग्रम् । युयुज्म । पृतनासु । ससहिम् । ऋणकातिम् । अदाभ्यम् । वेद । भृमम् । चित् । सनिता । रथितमः । वाजिनम् । यम् । इत् । ऊँ इति । नशत् ॥ugram | yuyujma | pṛtanāsu | sasahim | ṛṇa-kātim | adābhyam | veda | bhṛmam | cit | sanitā | rathi-tamaḥ | vājinam | yam | it | oṃ iti | naśat