Sukta 8.61
न पापासो मनामहे नारायासो न जळ्हवः । यदिन्न्विन्द्रं वृषणं सचा सुते सखायं कृणवामहै ॥
न पा॒पासो॑ मनामहे॒ नारा॑यासो॒ न जळ्ह॑वः । यदिन्न्विन्द्रं॒ वृष॑णं॒ सचा॑ सु॒ते सखा॑यं कृ॒णवा॑महै ॥
ná pāpā́so manāmahe ná ārāyā́so ná jaḷhávaḥ | yád ín nv índraṃ vṛ́ṣaṇaṃ sácā suté sákhāyaṃ kṛṇávāmahai ||
We do not think ourselves evil, nor hostile, nor crooked in impulse, since now we would make Indra the Bull of power our companion beside the pressed Soma.
न । पा॒पासः॑ । म॒ना॒म॒हे॒ । न । अरा॑यासः । न । जल्ह॑वः । यत् । इत् । नु । इन्द्र॑म् । वृष॑णम् । सचा॑ । सु॒ते । सखा॑यम् । कृ॒णवा॑महै ॥न । पापासः । मनामहे । न । अरायासः । न । जल्हवः । यत् । इत् । नु । इन्द्रम् । वृषणम् । सचा । सुते । सखायम् । कृणवामहै ॥na | pāpāsaḥ | manāmahe | na | arāyāsaḥ | na | jalhavaḥ | yat | it | nu | indram | vṛṣaṇam | sacā | sute | sakhāyam | kṛṇavāmahai