Sukta 8.6
वावृधान उप द्यवि वृषा वज्र्यरोरवीत् । वृत्रहा सोमपातमः ॥
वा॒वृ॒धा॒न उप॒ द्यवि॒ वृषा॑ व॒ज्र्य॑रोरवीत् । वृ॒त्र॒हा सो॑म॒पात॑मः ॥
vāvṛdhāná úpa dyávi vṛ́ṣā vajry àroravīt | vṛtrahā́ sómapātamaḥ ||
Growing ever more, the Bull with the thunderbolt has roared up toward heaven. The slayer of the coverer, the most perfect drinker of Soma—he rises in might to break the inner obstruction.
व॒वृ॒धा॒नः । उप॑ । द्यवि॑ । वृषा॑ । व॒ज्री । अ॒रो॒र॒वी॒त् । वृ॒त्र॒ऽहा । सो॒म॒ऽपात॑मः ॥ववृधानः । उप । द्यवि । वृषा । वज्री । अरोरवीत् । वृत्रहा । सोमपातमः ॥vavṛdhānaḥ | upa | dyavi | vṛṣā | vajrī | aroravīt | vṛtra-hā | soma-pātamaḥ