Sukta 8.6
त्वामिद्वृत्रहन्तम जनासो वृक्तबर्हिषः । हवन्ते वाजसातये ॥
त्वामिद्वृ॑त्रहन्तम॒ जना॑सो वृ॒क्तब॑र्हिषः । हव॑न्ते॒ वाज॑सातये ॥
tvā́m íd vṛtrahántamam jánāso vṛktábārhiṣaḥ | hávante vājásātaye ||
It is thee indeed, the mightiest slayer of the coverer, that the peoples with the well-spread sacred seat call—so that we may win vāja, the plenitude of force and victorious accomplishment.
त्वाम् । इत् । वृ॒त्र॒ह॒न्ऽत॒म॒ । जना॑सः । वृ॒क्तऽब॑र्हिषः । हव॑न्ते । वाज॑ऽसातये ॥त्वाम् । इत् । वृत्रहन्तम । जनासः । वृक्तबर्हिषः । हवन्ते । वाजसातये ॥tvām | it | vṛtrahan-tama | janāsaḥ | vṛkta-barhiṣaḥ | havante | vāja-sātaye