Sukta 8.6
कण्वास इन्द्र ते मतिं विश्वे वर्धन्ति पौंस्यम् । उतो शविष्ठ वृष्ण्यम् ॥
कण्वा॑स इन्द्र ते म॒तिं विश्वे॑ वर्धन्ति॒ पौंस्य॑म् । उ॒तो श॑विष्ठ॒ वृष्ण्य॑म् ॥
kaṇvā́sa indra te matíṃ víśve vardhanti paúṃsyam | utó śaviṣṭha vṛ́ṣṇyam ||
The Kaṇvas, O Indra, all strengthen your inspired thought—your manly power; and also, O most forceful, your virile might: by our increasing of the divine intention, the victorious energy grows in us.
कण्वा॑सः । इ॒न्द्र॒ । ते॒ । म॒तिम् । विश्वे॑ । व॒र्ध॒न्ति॒ । पौंस्य॑म् । उ॒तो इति॑ । श॒वि॒ष्ठ॒ । वृष्ण्य॑म् ॥कण्वासः । इन्द्र । ते । मतिम् । विश्वे । वर्धन्ति । पौंस्यम् । उतो इति । शविष्ठ । वृष्ण्यम् ॥kaṇvāsaḥ | indra | te | matim | viśve | vardhanti | paiṃsyam | uto iti | śaviṣṭha | vṛṣṇyam