Sukta 8.6
उत त्यदाश्वश्व्यं यदिन्द्र नाहुषीष्वा । अग्रे विक्षु प्रदीदयत् ॥
उ॒त त्यदा॒श्वश्व्यं॒ यदि॑न्द्र॒ नाहु॑षी॒ष्वा । अग्रे॑ वि॒क्षु प्र॒दीद॑यत् ॥
utá tyád āśv-áśvyaṃ yád indra nā́huṣīṣv ā́ | ágre vikṣú pra-dī́dayat ||
And that swift, horse-born power—when, O Indra, among the Nahusha-peoples—you made it blaze forth in front among the clans: you kindle the leading light of progress in the human collectivity.
उ॒त । त्यत् । आ॒शु॒ऽअश्व्य॑म् । यत् । इ॒न्द्र॒ । नाहु॑षीषु । आ । अग्रे॑ । वि॒क्षु । प्र॒ऽदीद॑यत् ॥उत । त्यत् । आशुअश्व्यम् । यत् । इन्द्र । नाहुषीषु । आ । अग्रे । विक्षु । प्रदीदयत् ॥uta | tyat | āśu-aśvyam | yat | indra | nāhuṣīṣu | ā | agre | vikṣu | pra-dīdayat