Sukta 8.6
तवेदिन्द्र प्रणीतिषूत प्रशस्तिरद्रिवः । यज्ञो वितन्तसाय्यः ॥
तवेदि॑न्द्र॒ प्रणी॑तिषू॒त प्रश॑स्तिरद्रिवः । य॒ज्ञो वि॑तन्त॒साय्य॑: ॥
tavéd indra pra-nī́tiṣūta práśastir adri-vaḥ | yajñó vitantasā́yyaḥ ||
O Indra, in your leadings indeed are praise and right direction, O wielder of the stone; and the sacrifice is spread out in its full extension—so the inner offering may travel safely to its goal.
तव॑ । इत् । इ॒न्द्र॒ । प्रऽनी॑तिषु । उ॒त । प्रऽश॑स्तिः । अ॒द्रि॒ऽवः॒ । य॒ज्ञः । वि॒त॒न्त॒साय्यः॑ ॥तव । इत् । इन्द्र । प्रनीतिषु । उत । प्रशस्तिः । अद्रिवः । यज्ञः । वितन्तसाय्यः ॥tava | it | indra | pra-nītiṣu | uta | pra-śastiḥ | adri-vaḥ | yajñaḥ | vitantasāyyaḥ