Sukta 8.6
य इमे रोदसी मही समीची समजग्रभीत् । तमोभिरिन्द्र तं गुहः ॥
य इ॒मे रोद॑सी म॒ही स॑मी॒ची स॒मज॑ग्रभीत् । तमो॑भिरिन्द्र॒ तं गु॑हः ॥
yá imé ródasī mahī́ samīcī́ samajagrabhīt | támobhir indra táṃ guhaḥ ||
He who seized together these two great Worlds, the Heaven and the Earth, drawing them into right facing—him, O Indra, you hid with darknesses: the concealed power waiting to be released into light.
यः । इ॒मे इति॑ । रोद॑सी॒ इति॑ । म॒ही इति॑ । स॒मी॒ची इति॑ स॒म्ऽई॒ची । स॒म्ऽअज॑ग्रभीत् । तमः॑ऽभिः । इ॒न्द्र॒ । तम् । गु॒हः॒ ॥यः । इमे इति । रोदसी इति । मही इति । समीची इति सम्ईची । सम्अजग्रभीत् । तमःभिः । इन्द्र । तम् । गुहः ॥yaḥ | ime iti | rodasī iti | mahī iti | samīcī itisam-īcī | sam-ajagrabhīt | tamaḥ-bhiḥ | indra | tam | guhaḥ