Sukta 8.6
न द्याव इन्द्रमोजसा नान्तरिक्षाणि वज्रिणम् । न विव्यचन्त भूमयः ॥
न द्याव॒ इन्द्र॒मोज॑सा॒ नान्तरि॑क्षाणि व॒ज्रिण॑म् । न वि॑व्यचन्त॒ भूम॑यः ॥
ná dyā́va índram ójasā nántárikṣāṇi vajríṇam | ná vivyácanta bhū́mayaḥ ||
Neither the heavens by their might, nor the mid-worlds, nor the earth-foundations can encompass Indra the wielder of the thunderbolt; his force exceeds the measures of the worlds.
न । द्यावः॑ । इन्द्र॑म् । ओज॑सा । न । अ॒न्तरि॑क्षाणि । व॒ज्रिण॑म् । न । वि॒व्य॒च॒न्त॒ । भूम॑यः ॥न । द्यावः । इन्द्रम् । ओजसा । न । अन्तरिक्षाणि । वज्रिणम् । न । विव्यचन्त । भूमयः ॥na | dyāvaḥ | indram | ojasā | na | antarikṣāṇi | vajriṇam | na | vivyacanta | bhūmayaḥ